मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् l 
कलाधरावतंसकं विलासि लोकरक्षकम् l
 
अनायकैक नायकं विनाशितेभदैत्यकम् l 
नताशुभाशुनाशकं नमामि तं विनायकम् llनतेतरातिभीकरं नवोदितार्कभास्वरम् l 
नमत्सुरारि निर्जरं नताधिकापदुद्धरम् l

 
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं l 
महेश्वरं तमाश्रये परात्परं निरन्तरम् llसमस्त लोकसंकरं निरस्तदैत्यकुंजरम् l 
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ll

कृपाकरं क्षमाकरं मुदाकरं यशस्करम् l 
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ll

अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् l 
पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम् ll

प्रपंच नाशभीषणं धनंजयादि भूषणम् l 
कपोलदानवारणं भजे पुराणवारणम् ll

नितान्तकान्तदन्तकान्ति मन्तकान्तकात्मजम् l 
अचिन्त्य रुपमन्तहीन मन्तरायकृन्तनम् l

 
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम् l 
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् llफलश्रुती :

महागणेश पंचरत्नम् आदरेण योन्वहम् l 
प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम् llअरोगितामदोषतां सुसाहितीं सुपुत्रताम् l 
समाहितायु रष्टभूतिमभ्युपैति सोचिरात् ll

Leave a Reply

Your email address will not be published.