असित कृतं शिव स्तोत्रम् Mandar Sant January 16, 2021 स्तोत्र *असित कृतं शिव स्तोत्रम् *असित उवाच ॥* *जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।* *योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥* *मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।* *मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥* *कालरूपं कलयतां कालकालेश कारण ।* *कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥* *गुणातीत गुणाधार गुणबीज गुणात्मक ।* *गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥* *ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।* *ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥* *इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।* *दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥* *असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।* *वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥* *स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।* *दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥* *अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।* *इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥* *इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।* *प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥* *इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे* *असितकृतं शिवस्तोत्रं संपूर्णम् ॥* Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website