।। श्रीदत्तात्रेय स्तोत्रम् ।।

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माsवतु ।।१।।
दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामी स माsवतु ।।२।।
शरणागतदीनार्तपरित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामी स माsवतु ।।३।।
सर्वानर्थहरं देवं सर्वमंगलमंगलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामी स माsवतु ।।४।।
शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माsवतु ।।५।।
सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
तापप्रशमनं वन्दे स्मर्तृगामी स माsवतु ।।६।।
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
आपदुद्धरणं वन्दे स्मर्तृगामी स मावतु ।।७।।
जन्मसंसारबंधघ्नं स्वरूपानन्ददायकम् ।
निःश्रेयसप्रदं वन्दे स्मर्तृगामी सा माsवतु ।।८।।
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत्स कृती भवेत् ।।९।।

।। इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं संपूर्णम् ।।

Leave a Reply

Your email address will not be published.