श्री गणेश पन्चरत्न स्तोत्र Mandar Sant June 10, 2017 स्तोत्र मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् l कलाधरावतंसकं विलासि लोकरक्षकम् l अनायकैक नायकं विनाशितेभदैत्यकम् l नताशुभाशुनाशकं नमामि तं विनायकम् llनतेतरातिभीकरं नवोदितार्कभास्वरम् l नमत्सुरारि निर्जरं नताधिकापदुद्धरम् l सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं l महेश्वरं तमाश्रये परात्परं निरन्तरम् llसमस्त लोकसंकरं निरस्तदैत्यकुंजरम् l दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ll कृपाकरं क्षमाकरं मुदाकरं यशस्करम् l मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ll अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् l पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम् ll प्रपंच नाशभीषणं धनंजयादि भूषणम् l कपोलदानवारणं भजे पुराणवारणम् ll नितान्तकान्तदन्तकान्ति मन्तकान्तकात्मजम् l अचिन्त्य रुपमन्तहीन मन्तरायकृन्तनम् l ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम् l तमेकदन्तमेव तं विचिन्तयामि सन्ततम् llफलश्रुती : महागणेश पंचरत्नम् आदरेण योन्वहम् l प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम् llअरोगितामदोषतां सुसाहितीं सुपुत्रताम् l समाहितायु रष्टभूतिमभ्युपैति सोचिरात् ll Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website