औषधे चिंतयेद्विष्णुं भोजने च जनार्दनम्|
शयने पद्मनाभं च विवाहे च प्रजापतिम्|
यथा चक्रधरं देवं प्रवासे च त्रिविक्रमम्|
नारायणं च त्यागे च श्रीधरं प्रियसंगमे||
दुःस्वप्ने स्मर गोविंदं संकटे मधुसूदनम्|
कानने नारसिंहं च पावके जलशायिनम्||
जलमध्ये वराहं च सर्वत्र रघुनंदनम्|
गमने वामनं चैव सर्वकालेषु माधवम्||
षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्|
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते||
Leave a Reply